क्या आप हम से Online संस्कृत पढ़ना चाहते हैं?

यहाँ हमारे ऑनलाईन संस्कृत कोर्स देखिए - https://madhukar-atole-sns.myinstamojo.com/

कौमुदीपरीक्षा १. सन्धिः (वाल्मीकिवर्गः)

प्रश्नाः

१. व्यञ्जनसन्धिः

I. सन्धिकार्यं कुरुत।

1. सन्धि + छेदः
2 .महत् + नगरम्
3 .कृष्णम् + वन्दे
4. सुप् + अन्तः
5. वाक् + वादिनी
6. वाक् + मुनिः
7. वाक् + श्रेष्ठः
8. तत् + अनन्तरम्
9. गङ्गा + छत्रम्

II. विच्छेदं कुरुत।

1. लक्ष्मीछाया
2. वाङ्मयम्
3. अर्थच्छटा
4. विच्छेदं कुरुत
5. जगदीशः
6. अब्जः
7. तन्मात्रम्
8. सम्राडशोकः
9. चिद्रूपम्

२. विसर्गसन्धिः

I. सन्धिकार्यं कुरुत।

1.तपः + वनम्
2.सूर्यः + उदयति
3.मनः + रुग्णः
4.सः + पठति
5.सर्वैः + अपि
6.रामः + वदति
7.भानुः + उदयति
निः + शङ्कम्

II. विच्छेदं कुरुत।


1.तमोगुणः
2.अर्जुनो जयति
3.बालका लिखन्ति
4.निश्चलः
5.रामष्ठक्कुरः
6.दुस्तरः
7.मुनेर्यज्ञः
शङ्करप्रभुतिभिर्देवैस्सदा

 उत्तराणि


१. व्यञ्जनसन्धिः


I. सन्धिकार्यं कुरुत।


1. सन्धि + छेदः - सन्धिच्छेदः (तुगागमः)
2. महत् + नगरम् - महन्नगरम् (अनुनासिकत्वम्)
3. कृष्णम् + वन्दे - कृष्णं वन्दे (मोऽनुस्वारः)
4. सुप् + अन्तः - सुबन्तः (जश्त्वम्)
5. वाक् + वादिनी - वाग्वादिनी (जश्त्वम्)
6. वाक् + मुनिः - वाङ्मुनिः (अनुनासिकत्वम्)
7. वाक् + श्रेष्ठः  (अत्र पाठ्यक्रमे निर्दिष्टं सन्धिकार्यं नास्ति।)
8. तत् + अनन्तरम् - तदनन्तरम् (जश्त्वम्)
9. गङ्गा + छत्रम् - गङ्गाच्छाया/गङ्गाछाया (विकल्पेन तुगागमः)

II. विच्छेदं कुरुत।

1. लक्ष्मीछाया - लक्ष्मी + छाया (विकल्पेन तुगागामः)
2. वाङ्मयम् - वाक् + मयम् (अनुनासिकत्वम्)
3. अर्थच्छटा - अर्थ + छटा (तुगागमः)
4. विच्छेदं कुरुत - विच्छेदम् + कुरुत (मोऽनुस्वारः)
5. जगदीशः - जगत् + ईशः (जश्त्वम्)
6. अब्जः - अप् + जः (जश्त्वम्)
7. तन्मात्रम् - तत् + मात्रम् (अनुनासिकत्वम्)
8. सम्राडशोकः - सम्राट् + अशोकः (जश्त्वम्)
9.  चिद्रूपम् - चित् + रूपम् (जश्त्वम्)

२. विसर्गसन्धिः

I. सन्धिकार्यं कुरुत।

1. तपः + वनम् - तपोवनम् (उत्वं गुणः च)
2. सूर्यः + उदयति - सूर्य उदयति (लोपः)
3. मनः + रुग्णः - मनोरुग्णः (उत्वं गुणः च)
4. सः + पठति - स पठति (लोपः)
5. सर्वैः + अपि - सर्वैरपि (रुत्वम्)
6. रामः + वदति - रामो वदति (उत्वं गुणः च)
7. भानुः + उदयति - भानुरुदयति (रुत्वम्)
8. निः + शङ्कम् - निश्शङ्कम् (सत्वम्)

II. विच्छेदं कुरुत।


1. तमोगुणः - तमः + गुणः (उत्वं गुणः च)
2. अर्जुनो जयति - अर्जुनः + जयति (उत्वं गुणः च)
3. बालका लिखन्ति - बालकाः + लिखन्ति (लोपः)
4. निश्चलः - निः + चलः (सत्वम्)
5. रामष्ठक्कुरः - रामः + ठक्कुरः (सत्वम्)
6. दुस्तरः - दुः + तरः (सत्वम्)
7. मुनेर्यज्ञः - मुनेः + यज्ञः (रुत्वम्)
8. शङ्करप्रभुतिभिर्देवैस्सदा - शङ्करप्रभुतिभिः + देवैः + सदा (रुत्वं सत्वं च)

 
कौमुदीपरीक्षा १. सन्धिः (वाल्मीकिवर्गः) कौमुदीपरीक्षा १. सन्धिः (वाल्मीकिवर्गः) Reviewed by मधुकर शिवशंकर आटोळे on दिसंबर 10, 2019 Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.