क्या आप हम से Online संस्कृत पढ़ना चाहते हैं?

यहाँ हमारे ऑनलाईन संस्कृत कोर्स देखिए - https://madhukar-atole-sns.myinstamojo.com/

देवदत्तस्य ज्वालामुखी

"देवदत्त! रे देवदत्त! उत्तिष्ठ। उत्तिष्ठ। नववादनम् इदम्। कीयत् कालपर्यन्तं शयनं करिष्यसि?" देवदत्तस्य माता बहुवारं देवदत्तं जागरयति। 

परन्तु अलसः देवदत्तः न उत्तिष्ठति। शयनं कुर्वन् देवदत्तः प्रतिवदति - "किम् अम्ब! भवती किमर्थं कोलाहलं करोति? अहं रात्रौ बहुपठनं कृतवान्, अभ्यासं कृतवान्। रात्रौ सार्धद्विवादनपर्यन्तम् अपि मम गृहकार्यं पूर्णं न अभवत्।"

"जानामि तव गृहकार्यम्। तव गृहकार्यं नाम संगणकक्रीडा।" माता क्रुद्धा जाता "अधुना क्षिप्रम् उत्तिष्ठ नो चेत् तव जलाभिषेकं करिष्यामि।"

एतत् श्रुत्वा देवदत्तः शनैः शनैः शय्यां त्यजति। सः स्नानादिकं कृत्वा आगत्य घटीं पश्यति - सार्धदशवादनम्तदा सत्वरं सः स्मरति - "अयि भोः! अद्य मम पाठशालायां विज्ञानप्रदर्शनम् अस्ति। विज्ञानप्रदर्शने मम प्रयोगः अस्ति। परन्तु रात्रौ अहं संगणकक्रीडां कृतवान्। अतः प्रयोगः पूर्णः नास्ति। एकादशवादने विद्यालयं गन्तव्यम् भवति। इदानीं किं करवाणि।"
 
 

देवदत्तः झटिति स्वकक्षं गच्छति। तत्र सर्वं प्रयोगसाहित्यं एकत्रीकरोति। तस्य प्रयोगः आरभ्यते। प्रयोगे ज्वालामुखी - उद्रेकः करणीयः आसीत्। सः सर्वान् पदार्थान् यथायोग्यं स्थापयति। प्रयोगस्य अन्ते ज्वालामुखी - बिले द्रव्यं निधाय उद्रेकः करणीयः आसीत्। परन्तु कदाचित् द्रव्यम् अधिकं भवति, तेन बहूद्रेकः भवति। कदाचित् द्रव्यं न्यूनं भवति, तेन उद्रेकः अल्पः भवति। देवदत्तः वारं वारं प्रयोगं करोति। परन्तु द्रव्यस्य योग्यं प्रमाणं किं भवेत् इति निर्णयं कर्तुं न शक्नोति।

"देवदत्तः! एकादशवादनम् इदम्।" माता आगत्य देवदत्तं विद्यालयगमनाय प्रेरयति - "विद्यालयं न गच्छसि वा? विलम्बः जायते।"

"किञ्चित् तिष्ठतु अम्ब।  इदं समाप्यते मम प्रयोगः। सत्वरम् आगच्छामि।" इति उक्त्वा देवदत्तः पुनः प्रयोगे लीनः। परन्तु सार्धद्वादशवादने अपि तस्य प्रयोगः पूर्णः नासीत्। अन्ततः विद्यालयतः तस्य वर्गशिक्षकस्य दूरवाणी आसीत्- 

"हरिः ओम्। देवदत्तः अस्ति वा?"

"आम्। अस्मि आचार्य"

"रे देवतत्त! अद्य विज्ञानप्रदर्शनम अस्ति। भवतः प्रयोगः अस्ति। भवान् न आगच्छति वा?"

"आगच्छामि आर्य!"

"सत्वरम् आगच्छतु!"

अधुना देवदत्तः सङ्कटे अस्ति। तस्य प्रयोगः अपि पूर्णः नास्ति। विलम्बः जातः। सः अपूर्णम् एव प्रयोगं स्वीकृत्य कथञ्चित् सपाद-एकवादने विद्यालयं प्राप्तः। विद्यालये विज्ञानप्रदर्शनस्य आरम्भः पूर्वमेव जातः। देवदत्तः स्वस्थानं गच्छति। झटिति स्वस्थानं गत्वा सः स्वकीयं प्रयोगं स्थापयति। वस्तूनि स्थापयन् देवदत्तः सहसा परीक्षकान् आगच्छन्तः पश्यति।

"किं बालक! दर्शयतु भवतः प्रयोगम्।" इति कश्चन परीक्षकः पृच्छति।

परन्तु देवदत्तः तु सिद्धः न आसीत्। तथापि महता धैर्येण सः वदति -

"स्वागतं महोदयाः। पश्यन्तु मम ज्वालामुखीम्। इदानीं ज्वालामुखी-उद्रेकः भवति।" एवम् उक्त्वा सः द्रव्यं ज्वालामुखी - बिले स्थापयति। परन्तु योग्यं द्रव्यं नासीत्। अतः उद्रेकः न जातः। तेन देवदत्तः खिन्नः जातः। अन्ये सर्वे छात्राः हसितवन्त। परीक्षकाः अपि अहसन्। तथापि देवदत्तः वदति - 

"क्षमां कुर्वन्तु आर्याः! अहं पुनः करोमि।" एवम् उक्त्वा देवदत्तः योग्यं द्रव्यं हस्ते गृह्णाति। तत् द्रव्यं सः ज्वालामुखी - बिले क्षिपति। परन्तु तत् द्रव्यम् बहु-अधिकं जातम्। तेन ज्वालामुुखी - उद्रेकः एतावान् महान् जातः। सर्वत्र अग्निः जातः। सर्वेषां मुखानि भृज्जितानि। सर्वे पलायनं कृतवन्तः।

तदा दुःखी देवदत्तः चिन्तयति -  "हा दैव! अत्र मम एव दोषः। अहम् अलसः प्रातः सत्वरं न उत्तिष्ठामि। रात्रौ सङ्गणकक्रीडां करोमि। तेन मम समयनाशः भवति। तेन एव मम दुर्गतिः जाता। इतः परम् अहं कदापि समयनाशं न करोमि। कदापि आलस्यं च न करोमि। रात्रौ यथासमयं शयनं कृत्वा प्रातः सत्वरम् उत्तिष्ठामि।"




देवदत्तस्य ज्वालामुखी देवदत्तस्य ज्वालामुखी Reviewed by कक्षा कौमुदी on जुलाई 30, 2020 Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.